भिक्षुकस्य स्वप्नः - The beggar's dream



पाठस्य सारः - तुमुन् प्रत्ययः, क्त्वा प्रत्ययः


एकदा भिक्षुकः आसीत्। सः खादितुं प्रतिदिनं भिक्षाटनं करोति स्म। केषुचित् दिनेषु भोजनं न लब्धं चेत् सः तदा न खादति स्म। परं एकदा तेन घटमितः गोधूमः लब्धः। सः मुदितः आसीत्। गृहं गत्वा सः मञ्चे उपविष्टवान्। प्रीत्या सः गोधूमघटं दृष्टवान्। सः स्वप्नान् दृष्टवान्…

"घटे गोधूमः बहुः अस्ति! एकसप्ताहपर्यन्तं पर्याप्तः गोधूमः एषः। कोषे भद्रं स्थापनीयं वा, आपणे विक्रयः करणीयः वा? दुर्भिक्षं जातं चेत् अत्यधिकाय मूलाय विक्रेतुं शक्नोमि। आपणे 'गोधूमं क्रेतुं कः इच्छति?' इति उच्चैः वदामि। 'अहम् इच्छामि! दश रूप्यकाणि ददामि!' इति कश्चन वदति। 'अहं पञ्चादश रूप्यकाणि ददामि!' इति अन्यः वदति। 'विंशतिः ददामि!' इति अन्यः कश्चन वदति। अहं विंशतिरूप्यकाणि स्वीकरोमि, तस्मै गोधूमं ददामि।


मम विंशतिः रूप्यकाणि सन्ति। पादरक्षे क्रीणामि वा? न, न, अहं ते क्रीत्वा मम धनस्य अपव्ययं न करोमि। अहं द्वे अजे क्रीणामि। अजे क्रीत्वा पत्राणि तृणं च दत्त्वा सम्यक् भोजयामि। ते अजे पुष्टे भवतः। ते प्रसूतिं कृत्वा नवजातान् शिशून् जनयतः! कानिचन वर्षाणि अतीतानि चेत् मम दशाः अजाः भवन्ति एव!! आपणे अहं ताः अजाः शतरूप्यकैः विक्रीणामि। आम्, शतरूप्यकैः! तेन धनेन किं कर्तुं शक्नोमि? ...आम्, द्वे गावौ क्रीणामि। बहु दुग्धम् लब्धं भवति मया! अहं दुग्धं नवनीतं पयः च विक्रीणामि। बर्फी, रसगोलाः, जामून - मधुराणि अपि!! तर्हि बालाः रजतस्य मुद्रिकाः आनयन्ति, मत् मधुराणि नीत्वा खादन्ति! पुरुषाः स्त्रियः चापि क्रेतुं मम आपणे आगच्छन्ति। मम व्यापारस्य वृद्धिः भवति। अहं धनिकः भविष्यामि!!


मम धनेन अहं किं करोमि? गजं क्रीणामि वा? मन्दिरस्य निर्माणं करोमि वा? न, न। अहं तु मणिमौक्तिकानां व्यापारं करोमि। आम्। तत्पश्चात् नीलवर्णस्य युतकं लोहितं शिरोवेष्टनं धारयित्वा महाराजस्य प्रासादे गन्तुं सिद्धः भवामि। 'मौक्तिकानि, रत्नखचिताः हाराः, सुवर्ण कङ्कणानि, नीलमणिकर्णकुण्डलानि, सर्वाणि सन्ति, देव! उत्तमोत्तमा गुणवत्ता एतेषां, सर्वश्रेष्ठाणि आभूषणानि! न तु अन्यत्र लब्धानि!' 'ओहो!' महाराजः वदति। 'मम राज्ञ्यै एतानि एव दातुम् इच्छा आसीत् मम!' 


तत्पश्चात् विस्तृतां भूमिं क्रेतुं धनं भवति मम। तां भूमिं क्रीत्वा विशालस्य गृहस्य निर्माणं करोमि! आम्रवृक्षाः मम उद्याने भवन्ति; मल्लिकानां सुगन्धः सर्वत्र प्रवहति; मन्दाराणि विकसितानि भवन्ति। तडागेषु हंसाः इतस्ततः तरन्ति। लोहितानि नीलानि पीतानि श्वेतानि नानाविधानि सुन्दराणि कमलानि विकसन्ति। गृहे सर्वत्र मम सेवकाः मम आदेशानां पालनं कुर्वन्ति। अहो! धनमेव धनम्! सुखमेव सुखम्! 


बहवः धनिकाः आगच्छन्ति मम गृहं, स्वपुत्र्या मम विवाहं कारयितुम् इच्छन्ति। अहं तासु सुकन्यासु कयापि विवाहं करोमि वा? नैव करोमि। महाराजः स्वयं आगच्छति, एतम् अनुरोधं करोति! नीरजाक्षी सुकेशिनी सुन्दरी सा राजकुमारी एव मम भार्या भवति! किञ्चित् समयानन्तरं मम द्वौ पुत्रौ भविष्यतः, एका पुत्री अपि भविष्यति। तदा, उद्याने वयं सर्वे परस्परम् खेलामः। यदाहं श्रान्तः भवामि, अहं विश्रामं कर्तुं गच्छामि। परं बालाः बालाः एव भवन्ति! शान्तिः कुत्र भवति? गच्छ गच्छेति उच्चैः वदामि, तान् भर्त्सयामि। ते श्रुण्वन्ति वा? नैव नैव। तर्हि अहं दण्डं स्वीकरोमि, तान् ताडयामि - ताडयामि - ताडयामि!"


तदा एव तेन उच्चः शब्दः श्रुतः। घटः पतित्वा सहस्रशः खण्डितः जातः। झटिति सः उत्तिष्ठति स्म। सर्वत्र दृष्टवान् सः। राजकुमारी नासीत्, सुविस्तृतं गृहं नासीत्, आम्रवृक्षाः न दृष्टाः, हंसाः न कुत्रापि, बालाः सर्वे विलीनाः! भूमौ पतितः खण्डीकृतः घटः सर्वत्र अवस्कन्नः गोधूमः एव दृष्टौ।


---------------------------------------------------------

भिक्षुकः - beggar


खादितुं - खाद् (eat) + तुमुन् प्रत्ययः (to) → to eat

भिक्षाटनं - begging 

स्म - an अव्ययम् (indeclinable) which converts present tense into past participle

करोति - does

करोति स्म - used to do


केषुचित् दिनेषु भोजनं न लब्धं चेत् सः तदा न खादति स्म।

केचित् = के + चित् = some

केषु (7th case of के → सप्तमी विभक्तिः → preposition) + चित् = केषुचित् = in some

लब्धं - लभ् (to obtain) + क्त प्रत्ययः → available, gotten


घटमितः - घटः (pot) + मितः (quantity) → घटमितः a pot's worth 

Of what? गोधूमः - flour.


मुदितः - मुद् (to be happy) + क्त प्रत्ययः pleased.


गत्वा - गम् (गच्छति/ गच्छसि/ गच्छामि) + क्त्वा प्रत्ययः

What is क्त्वा प्रत्ययः?

I bought the shirt and I am wearing it.

युतकं क्रीत्वा धारयामि।

I brought some sweets and gave them to the boy.

मधुराणि नीत्वा बालकं ददामि।

गृहं गत्वा सः मञ्चे उपविष्टवान्।

He went home and मञ्चे (मञ्च सप्तमी) on the bed (,) उपविष्टवान् sat down.


प्रीत्या सः गोधूमघटं दृष्टवान्।

प्रीतिः - love

प्रीत्या - तृतीया विभक्तिः 3rd case (by/with) with love

घटः - male, subject

घटं - male, object


स्वप्नान् - स्वप्नः → द्वितीया विभक्तिः बहुवचनम् → as an object, plural → स्वप्नान् 

To make things clearer

स्वप्नः - dream, male, subject, but only 1

स्वप्नं - again dream, male, only 1, but as object

स्वप्नान् - स्वप्नम् in plural


एकसप्ताहपर्यन्तं - एकः one सप्ताहः week + पर्यन्तम् enough - enough for one week


कोषे - कोषः - store

आपणे - आपणः - shop


क्रीणाति, क्रयः, क्रीत्वा, क्रेतुं, all these are related to buying.

All these with वि in front e.g. विक्रीणाति, विक्रयः, विक्रेतुं, all these are related to selling.


विक्रयः - an act of selling


दुर्भिक्षं जातं चेत् अत्यधिकाय मूलाय विक्रेतुं शक्नोमि।

दुर्भिक्षं - famine, not getting much to eat

जातं - is there, is caused, or happens

अत्यधिकं a lot → चतुर्थी - 4th case - for → अत्यधिकाय 

Similarly मूलाय for money

अत्यधिकाय मूलाय → for a lot of money, for a great price

विक्रेतुं → वि + क्री (क्रीणाति/ क्रीणासि/ क्रीणामि) - selling + तुमुन् प्रत्ययः to, in order to → to sell

शक्नोमि - I am capable

If a famine is caused, I can sell (it) for a great price.


इच्छति - wishes (इष्)


रूप्यकम् rupee, plural - रूप्यकाणि rupees

दश - ten

पञ्चादश - fifteen

विंशतिः - twenty


ददामि - दा give - I will give


अहं विंशतिरूप्यकाणि स्वीकरोमि, तस्मै गोधूमं ददामि।

तस्मै - सः - चतुर्थी to him, for him

गोधूमं - male, object


पादरक्षे क्रीणामि वा?

पादरक्षा - sandal, footwear

पादरक्षे - a pair of them


न, न, अहं ते क्रीत्वा मम धनस्य अपव्ययं न करोमि।

ते - (referring to पादरक्षे) those two fem. gen.

धनस्य - धनं (wealth) षष्ठी of

अपव्ययः - अप (bad) + व्ययः (spending) → अपव्ययं object 


अजे - अजा goat, dual


अजे क्रीत्वा पत्राणि तृणं च दत्त्वा सम्यक् भोजयामि।

क्रीत्वा - क्त्वा - buy, and

तृणं - grass

दत्त्वा - दा + क्त्वा - give, and

भोजयामि - I will feed (them)

I will buy a pair of goats and give them leaves and grass and feed them well.


पुष्टे - plump, healthy


प्रसूतिः - the action of bearing (a child) 

नवजातान् शिशून् - नव (new) जातः (born) → new born शिशुः child → all as objects, plural

जनयतः - those two (goats) give birth to, generate


शतरूप्यकैः - for a price of 100 (शत) rupees (not 4th case)


तेन धनेन - तत् धनं - तृतीया 3rd case by/with

कर्तुं - to do 

What to do with that money?


गावौ - 2 cows 

गौः - 1 cow


अहं दुग्धं नवनीतं पयः च विक्रीणामि।

नवनीतं - butter

पयः (पयस्) - neuter gender ending with स - cream


तर्हि बालाः रजतस्य मुद्रिकाः आनयन्ति, मत् मधुराणि नीत्वा खादन्ति!

रजतः - silver

रजतस्य - of silver

मुद्रिका - coin - मुद्रिकाः coins

आनयन्ति - they get

मत् - अहम् - पञ्चमी - from me

नीत्वा - get, and

Children will get silver coins, take sweets from me and eat them!



मम व्यापारस्य वृद्धिः भवति। अहं धनिकः भविष्यामि!!

वृद्धिः - progress

धनिकः - he who has धनं (wealth) - wealthy


गजं - गजः elephant - object

मन्दिरं - temple

निर्माणं - construction


तत्पश्चात् नीलवर्णस्य युतकं लोहितं शिरोवेष्टनं धारयित्वा महाराजस्य प्रासादे गन्तुं सिद्धः भवामि।

मणिमौक्तिकानां - of pearls and jewels

युतकं - shirt

शिरोवेष्टनं - turban

धारयित्वा - I will wear, and

प्रासादे - 7th case - preposition - प्रासादः palace

गन्तुं - to go

सिद्धः - ready


'मौक्तिकानि, रत्नखचिताः हाराः, सुवर्ण कङ्कणानि, नीलमणिकर्णकुण्डलानि, सर्वाणि सन्ति, देव! उत्तमोत्तमा गुणवत्ता एतेषां, सर्वश्रेष्ठाणि आभूषणानि! न तु अन्यत्र लब्धानि!'

Pearls, necklaces with diamonds embedded, gold bangles, earrings with blue jewels, they are all available, my Lord! 

Their quality is the best of the best, these are the highest quality ornaments! Never to be found elsewhere!


'ओहो!' महाराजः वदति। 'मम राज्ञ्यै एतानि एव दातुम् इच्छा आसीत् मम!' 

राज्ञ्यी - queen, राज्ञ्यै - for the queen

दातुम् - to give


तत्पश्चात् विस्तृतां भूमिं क्रेतुं धनं भवति मम।

विस्तृत - विशेषणपदम् broad, wide

भूमिः विस्तृता - subject

विस्तृतां भूमिं - object

Sentence order doesn't matter, remember!


आम्रवृक्षाः मम उद्याने भवन्ति; मल्लिकानां सुगन्धः सर्वत्र प्रवहति; मन्दाराणि विकसितानि भवन्ति।

आम्र (mango) वृक्षाः (trees) - mango trees

उद्यानम् - garden, orchard

मल्लिका - jasmine, मल्लिकानां - 6th case plu. (of) of the jasmines

सुगन्धः - fragrance

प्र + वहति (flows) - flows. Here the prefix adds some strength and beauty to the main word. Hence the usage.

मन्दारम् - hibiscus

विकसितं - bloomed (क्त प्रत्ययः)

बहुवचने - मन्दाराणि विकसितानि 


तडागेषु हंसाः इतस्ततः तरन्ति।

तडागः - pool, तडागेषु - सप्तमी बहुवचनम् preposition plural - in many pools

इतस्ततः - इतः from here + ततः from there - from here to there, from there to here

तरन्ति - तृ swimming

In many pools, swans swim from here to there, and there to here.


लोहितानि नीलानि पीतानि श्वेतानि नानाविधानि सुन्दराणि कमलानि विकसन्ति।

लोहितं - red

नीलं - blue

पीतं - yellow

श्वेतं - white

नाना (multiple) + विधं (types) = नानाविधं - various

सुन्दरं - beautiful

कमलानि (lotuses) is what they all describe


गृहे सर्वत्र मम सेवकाः मम आदेशानां पालनं कुर्वन्ति।

आदेशः - order, आदेशानाम् - 6th case plural (of) of orders

पालनं - execution, carrying out

Everywhere in my house, my servants will be doing the execution of my orders.


अहो! धनमेव धनम्! सुखमेव सुखम्! 

English cannot deliver this with impact, hence :)

आहा! धन ही धन, सुख ही सुख!


बहवः धनिकाः आगच्छन्ति मम गृहं, स्वपुत्र्या मम विवाहं कारयितुम् इच्छन्ति।

बहवः - बहुः many → plural - many many!

धनिकाः - धनिकः wealthy man → plural - many wealthy men

स्व own + पुत्री daughter → स्वपुत्री own daughter → स्वपुत्र्या 3rd cases by/with - with their own daughter

कारयितुं - करवाने के लिए 


अहं तासु सुकन्यासु कयापि विवाहं करोमि वा?

तासु - सा - सप्तमी preposition बहुवचनम् plural within all of them

सुकन्यासु (सु (good) कन्या (young lady, maiden) → fair maidens) in those fair maidens

कयापि - कया 3rd case - with + अपि any


महाराजः स्वयं आगच्छति, एतम् अनुरोधं करोति! नीरजाक्षी सुकेशिनी सुन्दरी सा राजकुमारी एव मम भार्या भवति!

अनुरोधः - request

नीरजाक्षी - नीरज lotus + अक्षी she with the eyes - she with the eyes like lotuses (lotus petals)

सुकेशिनी - she with beautiful tresses and locks

सुन्दरी - that beauty

राजकुमारी - the princess

भार्या - wife

The King will come himself, and place this request! The lotus-eyed princess with silky locks will only be my wife!


समयानन्तरम् - समय time + अनन्तरं later - some time later


यदाहं श्रान्तः भवामि, अहं विश्रामं कर्तुं गच्छामि।

यदाहं - when I am 

श्रान्तः - tired

Related words - श्रमः effort, श्रान्तिः tiredness, 

वि + श्रम् related words changes their meaning to relaxing, resting, etc.

विश्राम: - rest


परं बालाः बालाः एव भवन्ति!

But kids will be kids!


गच्छ गच्छेति उच्चैः वदामि, 

'Go, go!' I will say loudly,

तान् भर्त्सयामि।

भर्त्सना - scolding

भर्त्सयामि - I will scold


ते श्रुण्वन्ति वा? नैव नैव।

श्रुण्वन्ति - they listen

Will the listen? No, no.


तर्हि अहं दण्डं स्वीकरोमि, तान् ताडयामि - ताडयामि - ताडयामि!"

दण्डं - stick

ताडयामि - I will hit, slap


तदा एव तेन उच्चः शब्दः श्रुतः। घटः पतित्वा सहस्रशः खण्डितः जातः।

उच्चः - high (in this case, for sound - शब्दः)

श्रुतः - क्त प्रत्ययः - 

पतित्वा - पत् to fall + क्त्वा प्रत्ययः - fell, and

सहस्रशः - into thousands

खण्डितः - broken into pieces!


A loud, high-pitched sound sound was heard by him just then. The pot fell and was broken into a thousand pieces!


झटिति - the word झट् refers to quick action, speed, how we say 'in a jiffy' in English. झटिति means like this, in the blink of an eye…


राजकुमारी नासीत्, सुविस्तृतं गृहं नासीत्, आम्रवृक्षाः न दृष्टाः, हंसाः न कुत्रापि, बालाः सर्वे विलीनाः!

विलीनाः - disappeared


भूमौ पतितः खण्डीकृतः घटः सर्वत्र अवस्कन्नः गोधूमः एव दृष्टौ।

भूमिः earth - सप्तमी विभक्तिः 7th case preposition - भूमौ on the ground/ earth

खण्डीकृतः - broken into pieces, made into pieces

अवस्कन्नः - spilt


Comments