Skip to main content

Posts

Featured

शुकत्रयोविंशतिः

अत्र लभते चलनचित्रम् (आङ्ग्लमूलम्) सुविस्तृते वने पूर्वं शोकार्तश्शुकशावकः उड्डीय नीडमासाद्य अन्तर्विवेश व्याकुलः। १ हे वत्स वद मां केन कारणेनाशुभेन वै सदा हृष्टो हर्षितोऽद्य शुष्कं पुष्पमिवासि भो? २ एवमुवाच माताऽस्य तं खिन्नं शुकबालकं मातर्मे पश्य नासां त्वं चञ्चुं वक्रां कुरूपिणीम् । ३ न शोभते कुतोऽयं मे वक्रस्तुण्डो विलोहितः। अन्येषां विहगानां तु पश्य चञ्चूः सुदर्शनाः। ४ क्रौञ्चश्येनविहङ्गानां तथैव नीलवाजिनां तथा गरुत्मतश्चापि चञ्चूः पश्य सुरूपिणीः। ५ किं कारणं जनन्येषा चञ्चुर्मे न तु शोभना दुर्दर्शनायते नासा श्वेते श्यामकलङ्कवत्। ६ तुण्डोऽयं सुन्दरस्ते हि माता तदा उवाच यत् परन्तु नहि मेने सः तच्छ्रुत्वा शुकबालकः । ७ वत्स मन्यस्व मद्वाक्यं डयस्व तत्तरुं प्रति नत्वा पृच्छ शुकश्रेष्ठं  लोहितपक्षधारिणम्। ८ तस्यास्तद्वचनं श्रुत्वा डिड्ये क्षिप्रं शुकार्भकः धीमन्तं प्राप्य नत्वा तं ववन्दे शुकनायकम्  । ९ सर्वज्ञोऽसि कुलश्रेष्ठ दीर्घदृष्टे महामते प्रणतोऽस्मि विनीत्याऽहं मम शङ्कां निवारय । १० किं कारणं हि नैवेयं चञ्चुर्मे शोभते तथा गरुडस्य च क्रौञ्चस्य श्येनस्य भासते यथा ? ११ श्रु...

Latest posts

बुद्धिरेव मूलधनम्! - Ingenuity is capital

आगन्तुकात् सावधानं!! - Beware of the stranger!

सकलबुद्धिर्वा सहजबुद्धिर्वा आवश्यकी? - The battle between all knowledge and common sense

मूषिका कन्या अभवत्! - The mouse became a maiden!