शुकत्रयोविंशतिः


अत्र लभते चलनचित्रम् (आङ्ग्लमूलम्)



सुविस्तृते वने पूर्वं

शोकार्तश्शुकशावकः

उड्डीय नीडमासाद्य

अन्तर्विवेश व्याकुलः। १


हे वत्स वद मां केन

कारणेनाशुभेन वै

सदा हृष्टो हर्षितोऽद्य

शुष्कं पुष्पमिवासि भो? २


एवमुवाच माताऽस्य

तं खिन्नं शुकबालकं

मातर्मे पश्य नासां त्वं

चञ्चुं वक्रां कुरूपिणीम् । ३


न शोभते कुतोऽयं मे

वक्रस्तुण्डो विलोहितः।

अन्येषां विहगानां तु

पश्य चञ्चूः सुदर्शनाः। ४


क्रौञ्चश्येनविहङ्गानां

तथैव नीलवाजिनां

तथा गरुत्मतश्चापि

चञ्चूः पश्य सुरूपिणीः। ५


किं कारणं जनन्येषा

चञ्चुर्मे न तु शोभना

दुर्दर्शनायते नासा

श्वेते श्यामकलङ्कवत्। ६


तुण्डोऽयं सुन्दरस्ते हि

माता तदा उवाच यत्

परन्तु नहि मेने सः

तच्छ्रुत्वा शुकबालकः । ७


वत्स मन्यस्व मद्वाक्यं

डयस्व तत्तरुं प्रति

नत्वा पृच्छ शुकश्रेष्ठं 

लोहितपक्षधारिणम्। ८


तस्यास्तद्वचनं श्रुत्वा

डिड्ये क्षिप्रं शुकार्भकः

धीमन्तं प्राप्य नत्वा तं

ववन्दे शुकनायकम्  । ९


सर्वज्ञोऽसि कुलश्रेष्ठ

दीर्घदृष्टे महामते

प्रणतोऽस्मि विनीत्याऽहं

मम शङ्कां निवारय । १०


किं कारणं हि नैवेयं

चञ्चुर्मे शोभते तथा

गरुडस्य च क्रौञ्चस्य

श्येनस्य भासते यथा ? ११


श्रुत्वोवाच शुकश्रेष्ठः

वचनं बालकस्य तत्

सत्यमुक्तं त्वया वत्स

सन्देहो नास्ति तत्र भोः । १२


क्रौञ्चं नीचं द्विजं पश्य

खादन्तं वारिकीटकान्!

ईहसे किं तथा भोक्तुं

किं तच्चञ्चुर्भवेद्वरम् ?   १३


छिः छिर्नैव सदा नैव

बालः प्राह जुगुप्सया

स्वप्नेष्वपि न स्पर्शेयं

कीटकान् किं नु भक्षणम् ?!' १४


वाचं निशम्य डिम्भस्य

शुकयूथपतिः पुन

रब्रवीन्मन्दहासेन

दर्शयन्नीलपक्षिणम् ॥  १५


मीनानेवात्त्यसौ पक्षी

लोकसे किं शुकार्भक !

कीटान्नेच्छसि चेत्त्वं तु

मत्स्यान् खादसि वा न वा? १६


शुकशावक उवाच


दुर्गन्धानण्डजानेतान्

नाऽहं खादामि हे प्रभो !

कल्पानायां कृतायां हि

मनो मे दूयते विभो ! १७


शुकनेतोवाच


श्येनं च गरुडं पश्य

खादन्तौ शशशावकान्!

भुजगान्मूषकान्हृत्वा

भक्षेते निर्दयं तदा!' १८


शुकबाल उवाच


तान्पिशिताशनान्दृष्ट्वा

भोक्तुमिच्छैव नास्ति मे

शाकाहरं वरं श्रीमन्

आमिषं नाद्मि सर्वदा । १९


शुकनेतोवाच


'बीजान्येतानि स्वादूनि

वत्स खादसि वा वद?'

आमामिति प्रमोदेन

तानि स्वीकृतवाञ्शुकः। २०


'अन्याभिर्चञ्चुभिर्किं त्वम्

एतत्खादितुमिच्छसि ?'

नैव नैवेति बालेन 

प्रोक्तः शुककुलोत्तमः। २१


'सृष्टौ यत्सृष्टवांस्रष्टा

तत्सर्वं कारणेन हि!

ज्ञात्वा तद्भव सन्तुष्टो

वितोषो मास्तु चिन्तने।'  २२


प्रफुल्लवदनो बालः

सर्वमवजगाम तत्

डिड्ये धन्यो गृहं प्राप्तुं

चञ्चुर्न तमबाधयत्।  २३















Comments