सकलबुद्धिर्वा सहजबुद्धिर्वा आवश्यकी? - The battle between all knowledge and common sense
एकदा चत्वारि परममित्राणि आसन्। तेषु त्रयः पण्डिताः। षडङ्गादिवेदेषु विज्ञाने सकलशास्त्रेषु ते निपुणाः। परं तेषु चतुर्थः अज्ञानी आसीत्। विद्यार्जने तस्य मतिः आसक्तिः च न आस्ताम्। परं बाल्यात् सः तेषां पण्डितानां सखा आसीत्। एकस्मिन् दिने चत्वारः सखायः मिलित्वा आलोचयन्तः आसन् यत् धनप्राप्त्यै किं करणीयमिति। प्रथमः उक्तवान् - 'वयं त्रयः कोविदाः। कोविदाः वा! कोविदाः इति कश्चन वदति चेत् तेन अस्मत्कृते घोरः अपमानः कृतः भवति। वयं तु सर्वज्ञाः! धनं प्राप्तुम् अस्माकं ज्ञानस्य प्रदर्शनं कुर्याम। भारतमुकुटेभ्यः हिमालयेभ्यः महासमुद्रपर्यन्तभूमौ ये ये राजानः सन्ति ते अस्मान् त्रीन् पूजयन्ति। राज्यसभाः गत्वा वयं विज्ञानस्य सर्वासु शाखासु अस्माकं ज्ञानं, तर्के अस्माकं नैपुण्यं, व्याकरणे अस्मत्कौशलं प्रदर्शयामः। तदा साक्षात् तथैव भवति यथा शङ्करभगवत्पादेन उक्तम् - 'क्षमामण्डले भूपभूपालवृन्दैः सदासेवितं यस्य पादारविन्दम्!'
एतत् अन्यौ अपि अरोचत। द्वितीयः तदा - 'एवमेव करणीयम्। परम् एषः बुद्धिहीनः अस्ति खलु, तम् अत्रैव त्यजामः। सः भारम् इव भवति। वर्णमालाम् अपि जानाति वा एषः मूर्खः? साक्षात् पण्डितः अयम्।' इति व्यङ्ग्येन उक्तवान्। 'अयि सखायः,' इति तृतीयः प्रारब्धवान्, 'अवश्यमेव वयं ज्ञानिनः, एषः अज्ञानी। परं बाल्ये एव तेन अस्माकं दृढा मैत्री जाता। सोऽपि अस्माकं सखा। तमपि नयामः।' तथैव ते चत्वारः ततः धनप्राप्तेः कस्याञ्चित् महासभायां सम्माननस्य आशया ततः गतवन्तः। बहूनि दिनानि अतीतानि। ते इतस्ततः अटितवन्तः। तदा तैः एकं बृहदरण्यम् अतिक्रमणीयम् आसीत्। महति कानने ते चलन्तः आसन् यदा तैः सिंहस्य सहस्रशः खण्डितः भुवि पतितः अस्थिपञ्जरः दृष्टः। 'आगच्छन्तु! एषा अस्माकं शिक्षायाः परीक्षा!' इति प्रथमः उक्तवान्। 'अत्र पश्यन्तु। एतत् सिंहस्य मृतशरीरम्। एतानि भग्नानि अस्थीनि दृष्टानि खलु? अहम् एतैः सह अस्य अस्थिपञ्जरस्य पुनर्निर्माणं करोमि। भवन्तः एव पश्यन्तु!' इति गर्वेण कथितवान्। तत्पश्चात् सः स्वनेत्रे निमील्य मन्त्रम् उक्तवान्। अस्थीनि पञ्जररूपेण क्षणाभ्यन्तरे निर्मितानि।
द्वितीयः उक्तवान् 'अहं तु मांसं चर्म च स्रष्टुं शक्नोमि! केवलं अस्थिपञ्जरेण सिंहः जीवति वा किम्?' इति उक्तवान्, तेनापि नयने निमीलिते। सः यदा मन्त्रम् उक्तवान्, झटिति सिंहस्य शरीरं निर्मितम् आसीत्। सोऽपि गर्वितः जातः।
तृतीयः उक्तवान् - 'भोः, भवद्भ्यां सिंहवपुः निर्मितम्। परं सिंहः जीवितो नास्ति।' सः स्मितवान्। 'मया एव एतत् कर्तुं शक्यते।' तदैव भीतः चतुर्थः उक्तवान् - 'अयि मित्राणि! भवन्तः कुशलबुद्धयः , अहं बुद्धिहीनः एवम् अहमपि जाने, अहमपि मन्ये। परम् एषः सिंहः। बुभुक्षुः एषः मरणं प्राप्तवान् स्यात्। एषः पुनर्जीवितः भवति चेत् वयं जीवितुं न शक्नुमः। कृपया एवं मा करोतु।' क्रुद्धः तृतीयः उक्तवान् - 'मुर्खः खलु। कृतघ्नः एव भवति। कः त्वाम् अत्र नीतवान्? तव पिता वा? अहं दयया त्वामत्र आनीतवान्, अहम्। तथापि कीदृश्या कृतघ्नतया व्यवहरसि! किञ्चित् लज्जां करोतु! ओह, मूर्खः एषः लज्जाशीलः कथं भवति!' मुहुर्मुहुः चतुर्थः एवमेव उक्तवान्, परं तस्य वचनं याचनां च श्रुत्वा पण्डितः इतोऽपि कुपितः जातः। अन्ते सः चतुर्थः 'क्षम्यताम् सखे। परं निमेषद्वयं तिष्ठ। अहं वृक्षम् आरोहामि। तदा करोतु यथेष्टम्।' इति उक्तवान्। तथैव सः इङ्गितज्ञः चतुर्थः कृतवान् अपि।
तृतीयः मन्त्रम् उक्तवान्। तदैव क्षणेभ्यः पूर्वं प्राणहीनः सिंहः उच्चस्वरेण गर्जितवान्। झटिति सः तान् तथाकथितान् 'पण्डितान्' हतवान्। सिंहस्य कृते प्राणदानाय तैः प्राणत्यागः एव करणीयः आसीत्!
मम मनसि एकः एव प्रश्नः अस्ति इदानीं - कथं ते स्वप्नेषु अपि तर्कज्ञाः भवितुम् अर्हन्ति??
Comments
Post a Comment