बुद्धिरेव मूलधनम्! - Ingenuity is capital
कश्चन युवकः उद्योगाय शोधयन् आसीत्। एकदा सः 'कः व्यापारः करणीयः, कथं व्यापारः करणीयः' इति चिन्तयन् नगरमार्गेषु भ्रमति स्म। तदैव राज्यकोषाध्यक्षः स्वसख्या सह चलन् आसीत्। 'तव वैभवस्य रहस्यं किम्? सखे, इदमहं ज्ञातुं जिज्ञासुः अस्मि।' इति उक्तवत् राज्यधनाध्यक्षस्य मित्रम्। 'अत्र पश्यतु।' इत्युक्तवान् कोषाधिकारी। तत्र एकस्य मूषकस्य मृतशरीरम् आसीत्। 'कोऽपि कुशलबुद्धिः निर्धनः अस्ति चेदपि एतेन मूल्यरहितेन मूषकशवेन कोटीश्वरः भवितुम् अर्हति। एतत्सत्यम्! एषः तुच्छतमः मूषकप्रेतकायः अपि भाविनः वृद्धिमतः व्यापारस्य मूलधनं भवितुं शक्नोति, अवश्यं शक्नोति,' इति उक्तवान् कोषाधिकारी। उच्चैः हसन् तस्य सखा उक्तवान् - 'भोः! उपहासं करोति खलु भवान्? मृतमूषकं त्यजतु, जीवितस्य मूषकस्य विक्रयः अपि न भवति। तेन कः लाभः? यदा जीवितः मूषकः एव मूल्यरहितः अस्ति, भवान् एव चिन्तयतु मृतस्य मूषकस्य किं मूल्यं भवतीति! तदपि व्यापारमूलधनस्य रूपेण वा? ह ह ह!' परस्परं जल्पनं कुर्वन्तौ उभौ अपि अग्रे चलितवन्तौ।
तदैव कोषाध्यक्षस्य वचनं शृतवान् युवकः। 'अवश्यमेव विचित्रमस्ति यत् धनाधिकारिणा उक्तम्। परं सः तु पण्डितः। तस्य वचनं मिथ्या भवितुं न अर्हति, सत्यमेव भवति। अस्तु, पश्यामः किं भवतीति…' इति चिन्तितवान् सः। अधः पतितस्य मूषकस्य शवं सः नीतवान्। यदा सः 'एतेन किं करोमि?' चिन्तयन् आसीत्, तदैव झटिति एकः मार्जारः आगत्य क्षणे युवकस्य समीपं गत्वा कूर्दितवान्। 'अयि, आगच्छ, कुत्र गच्छसि!' इति मार्जारस्य स्वामी पृष्ठतः अग्रे धावितवान्। युवकस्य हस्तयोः मूषकं दृष्ट्वा उक्तवान् सः - 'ओह! इदानीं जानामि किमर्थम् एषः तथा झटिति कूर्दितवान् इति। सखे, तत् मह्यं ददातु। अहं भवते एकं पैसं ददामि।' इति। हृष्टः युवकः मूषकशवं मार्जाराय दत्त्वा पैसं स्वीकृतवान्। 'अहो!! मम प्रथमं धनार्जनम्!' इति चिन्तितवान्। 'इदानीम् एतेन किं करोमि?' इति विचिन्त्य सः अग्रे अगच्छत्।
झटिति 'इदानीम् अवगतं मया!' इत्युक्त्वा सः कस्यचित् विक्रेतुः समीपं गत्वा तस्मात् पैसामितं गुडं, एकं घटं च क्रीतवान्। नगरस्य समीपे एव काचित् सरित् प्रवहन्ती आसीत्। तस्याः जलं शुद्धम् आसीत्। सा सरित् दर्पणः इव आसीत्। तस्याः मन्दगतौ वहत् शुद्धजलं घटेन नीत्वा युवकः नगरसमीपं वनं गतवान्।
अरण्ये मालिनः सुन्दराणि सुगन्धानि पुष्पाणि अवचित्य पुष्पकरण्डेषु स्थापयन्तः आसन्। उक्तवान् युवकः - 'अयि भ्रातरः! भवतां क्षुत्पिपासे न वा? आदिनं तीव्रातपे पुष्पावचयनं कुर्वन्ति भवन्तः। आगच्छन्तु, किञ्चित् जलं गुडं च स्वीकुर्वन्तु!' इति। हृष्टाः मालिनः आगत्य गुडं, घटात् किञ्चित् जलं च स्वीकृत्य खादितवन्तः पीतवन्तश्च। ते सर्वे खादित्वा, जलं पीत्वा तृप्ताः आसन्। तेषु एकः आगतवान्, उक्तवान् च - 'भवतः साहाय्याय वयं सर्वे कृतज्ञाः। परं भवते दातुं तु एतदेव अस्ति' इति वदन् सः मञ्जूषायाः कानिचन पुष्पाणि दत्तवान्। तथैव अन्ये मालिनः अपि पुष्पाणि दत्तवन्तः।
तानि पुष्पाणि नीत्वा सः युवकः मन्दिरं गतवान्। तत्र पुष्पाणि विक्रीय सः षोडश ताम्रमुद्रिकाः प्राप्तवान्। ताभिः सः इतोऽपि बृहत् घटं, इतोऽपि गुडं च क्रीतवान्। तद्दिने सः वने मालिनां समीपम् एव न, निकटं तृणक्षेत्रं अपि गतवान्। तत्र कर्मकराः आतपे स्थिताः तृणं कृन्तन्ति स्म। 'भो भ्रातरः! भवत्सु कोऽपि जलं पातुकामो नास्ति वा? कीदृशं परिश्रमं कुर्वन्ति भवन्तः सर्वे!' 'वत्स,' इति कश्चन वृद्धः कर्मकरः उक्तवान्, 'अत्र सर्वे पिपासवः एव। कदापि भवान् अत्र कमपि अतृषितं न पश्यति।' 'आगच्छन्तु। मम समीपे बहु जलम् अस्ति, घटमितं जलम् अस्ति। पिबन्तु यथेच्छया।' इत्युक्तवान् युवकः। कर्मकराः कृतज्ञतापूर्वकं पृष्टवन्तः - 'भवतः किं साहाय्यं कर्तुं शक्नुमः वयम्?' 'एतत्समये किमपि नास्ति, यदावश्यकं सम्पर्कं करोमि,' इति आसीत् युवकस्य वचनम्। 'निःसङ्कोचेन पृच्छतु यदा अस्माकं साहाय्यं आवश्यकम्!' इति ते उक्तवन्तः।
तत्पश्चात् सः स्वगृहं प्राप्तुं चलन् आसीत्, यदा अतिवृष्टिः जाता। झटिति धावित्वा सः गृहं प्राप्तवान्। तदा सः चिन्तितवान्… - 'मूषकस्य शवेन अपि धनं लब्धुं शक्यते… तर्हि एताभिः वृष्ट्या पातिताभिः वृक्षशाखाभिः अपि धनं लब्धुं शक्यते खलु!' तत्पश्चात् अग्रिमे दिने प्रातः सः राजप्रासादस्य उद्यानं गतवान्। तत्र चिन्ताक्रान्तः उद्यानपालः इतस्ततः चलन् आसीत्। 'सखे, अलं चिन्तया। कथं भवतः साहाय्यं कर्तुं शक्नोमि?' इति पृष्टवान्। 'अहो! पश्यतु अत्र। एतत् राज्ञः प्रियम् उद्यानं रणभूमिः इव अस्ति!! कदापि महाराजः अत्र आगत्य ह्यः वृष्ट्या जातां उद्यानस्य एतां दुर्दशां पश्यति चेत्…' 'चिन्ता न कार्या! अहं क्षणे एव उद्यानं शुद्धीकरोमि। परं तदहं करोमि यदि भवान् मह्यम् एताः शाखाः ददाति।' 'नयतु भो, नयतु। परं शीघ्रं नयतु।'
निकटे केचन बालकाः खेलन्तः आसन्। तान् आहूय उक्तवान् युवकः - 'कः गुडम् इच्छति?' सर्वे बालाः 'अहम्! अहम्!' इति उच्चैः रटितवन्तः। 'परं यदि भवन्तः गुडं खादितुम् इच्छन्ति, एकं लघुकार्यं करणीयम्…' 'भवान् वदतु! अवश्यं कुर्मः!!' इति प्रत्युत्तरं दत्तवन्तः उत्सुकाः बालकाः। तान् सर्वान् उद्यानम् आनीय उक्तवान् - 'इतः पतिताः शाखाः नीत्वा बहिः स्थापयन्तु। अत्र शुद्धीकरणं कुर्वन्तु।' तत् श्रुत्वा ते सर्वे एकस्यां पङ्क्तौ स्थितवन्तः। क्षणाभ्यन्तरे सर्वाः शाखाः बहिः स्थापिताः। युवकः गुडं सर्वेभ्यः ददत् उक्तवान् - 'साधु! साधु! बहवः धन्यवादाः!' हृष्टाः बालाः गुडं स्वीकृत्य ततः गतवन्तः।
तदैव यदा युवकः 'एताभिः किं करोमि' इति चिन्तयन् आसीत्, कश्चन कुम्भकारः आगत्य ताः शाखाः दृष्टवान्।
'अहो, बहूनि काष्ठानि सन्ति भवतः समीपे! विक्रीणाति वा? शतताम्रमुद्रिकाः ददामि भवते…' इति पृष्टवान्।
युवकः कुम्भकाराय शतमुद्रिकाभिः काष्ठानि तस्मै दत्तवान्।
अग्रिमे दिने समाचारः तेन लब्धः यत् काश्याः प्रसिद्धः अश्वव्यापारी आगच्छति इति। झटिति सः तृणक्षेत्रं गतवान्। तत्र सः पञ्चशतेभ्यः कर्मकरेभ्यः एकम् एकं तृणगुच्छं नीतवान्। तान् सः उक्तवान् - 'कृपया श्वः मध्याह्नपर्यन्तं किमपि मा विक्रीणातु।' 'भवान् अस्माकं सखा। यद्भवान् वदति तदेव कुर्मः।' इति। कृतज्ञः युवकः ततः गतवान्।
तत्पश्चात् अश्वव्यापारी अश्वान् भोजयितुं तृणं क्रेतुम् इच्छुकः आसीत्। युवकस्य समीपे बहु तृणं दृष्ट्वा तस्मात् सहस्रमुद्रिकाभिः क्रीतवान्। सहस्रमुद्रिकाभिः सः उत्तमं युतकं शिरोवेष्टनं च क्रीत्वा रथाय मूल्यं दत्त्वा नौकानां व्यापारिणः समीपं गतवान्। 'सखे, अहं भवता सह व्यापारं कर्तुम् इच्छामि। भवतः सम्पूर्णं नौकासमूहं क्रेतुं मे इच्छा। आदौ एतत् धनं स्वीकरोतु। एकस्मिन् मासे अहं भवते सम्पूर्णं मूल्यं ददामि।' 'अवश्यम्! मम भृशः आनन्दः भवता सह क्रयविक्रयं कर्तुम्!' इति उक्तवान् व्यापारी।
तदैव 'सखे! नौकाः क्रेतुम् आगताः वयम्!' इति वदन्तः अन्ये व्यापारिणः आगतवन्तः। 'क्षम्यताम्। मम सम्पूर्णः नौकासमूहः तेन क्रीतः।' इति उक्तवान् व्यापारी। यूवकस्य समीपं गत्वा ते उक्तवन्तः, 'भो, कृपया अस्मभ्यं नौकासमूहं ददातु! यत् मूल्यं भवान् क्रेतुं दत्तवान् तस्य शतगुणं दद्मः वयम्।' 'न भोः, न शक्यम्।' 'तर्हि सहस्रगुणं दद्मः।' एकं क्षणं सः युवकः चिन्तयन् आसीत्। तत्पश्चात् उक्तवान् सः, 'भवतु।'
युवकः लक्षमुद्रिकाः नीत्वा कोषाध्यक्षस्य गृहं गत्वा पादौ स्पृष्ट्वा समर्पयन् उक्तवान् - 'एषा मम गुरुदक्षिणा।' 'वत्स, पुरा अहं भवन्तं न दृष्टवान् एव, भवन्तम् अहं किं शिक्षितवान्?' तदा युवकः कोषाधिकारिणम् आत्मकथां श्रावितवान्। तत् श्रुत्वा मुदितः कोषाध्यक्षः उक्तवान् - 'यः स्वस्य बुद्धेः प्रयोगम् एवमेव करोति, तं दृष्ट्वा श्रीः स्मयते। बुद्धिमान् मूषकशवात् अपि धनं लब्धुम् अर्हति। सः महदैश्वर्यं प्राप्नोति। बुद्धिरेव मूलधनम्! भवता कुशलबुद्धिना अहं मम सुपुत्र्याः विवाहं कारयितुम् इच्छामि।' तथैव राज्यकोषाध्यक्षस्य पुत्र्याः पाणिग्रहणसंस्कारः तेन युवकेन जातः। तथा युवकः पैसातः महद्धनं प्राप्तुं शक्तवान्!
Comments
Post a Comment