मूषिका कन्या अभवत्! - The mouse became a maiden!
पाठस्य सारः - णिच् प्रत्ययः, लोट् लकारः
पूर्वकाले कश्चन साधुः गङ्गातटे निवसति स्म। सः साधुः महाज्ञानी आसीत्। एकदा साधुः गङ्गायां स्नातुं गतवान्। सः स्नात्वा सन्ध्यावन्दनं कृतवान्। तदा तस्य हस्तयोः किमपि पतितम्। साधुः हस्तयोः एकां लघ्वीं मूषिकां दृष्टवान्। सा रम्या आसीत्। तां दृष्ट्वा मुदितः मुनिः ऐन्द्रजालिकया शक्त्या तां बालिकां कृत्वा तस्याः रूपं परिवर्तितवान्। तां स्वगृहं नीत्वा पत्नीम् उक्तवान् - 'पश्यतु, भवती सन्तानम् इच्छति, खलु? एतस्याः पालनं त्वं स्वपुत्र्याः इव कुरु। एतां सम्यक् पालय।''
साधोः पत्नी अपि अतीव प्रसन्ना आसीत्। सा स्वपुत्र्याः उत्तमं पालनं कृतवती। बहूनि वर्षाणि अतीतानि। सा बाला इदानीं कन्या अभवत्। तस्याः अपेक्षया न कापि अन्या इतोऽपि रूपवती गुणवती।
पुत्र्याः विवाहः केनापि महात्मना कारयामि, सर्वेषु पुरुषेषु श्रेष्ठः एव एतस्याः पतिः भवितुम् अर्हति इति चिन्तितवान्। किञ्चित् समयानन्तरं सः चिन्तितवान् यत् आकाशे तेन विराजमानेन सूर्येण स्वपुत्र्याः विवाहं कारयामि इति।
सः आदित्यम् आहूतवान्, उक्तवान् - 'देव, भवते दीप्तिमते मम बुद्धिमती सुरूपिणी पुत्री एव सर्वासु श्रेष्ठा वधूः भवति। भवान् तया विवाहं कर्तुम् इच्छति वा?' तदैव तस्य पुत्री उक्तवती - 'पितः, अहम् एतेन विवाहं कर्तुम् न इच्छामि। रविः अवश्यमेव प्रभावान्, परं सः ज्वली, तपनः! सः सर्वदा तापयति। अहम् अन्येन केनापि विवाहं कर्तुम् इच्छामि।' 'भानो! भवतः कः महान्?' इति साधुः पृष्टवान्। 'मुने, मेघः मत् महान्। सः यदा मां आच्छादयति, दीप्तिहीनः भवामि।' इति उक्तम् आदित्येन।
मुनिः मेघम् आहूतवान्। मेघः आगतवान्। साधोः वचनम् आसीत् - 'पर्ज्जन्य! भवान् यदा वर्षयति, भूमौ वृक्षाः लताः सर्वे तत् जलं पीत्वा हरिताः भवन्ति। कृषकाः भवते 'वर्षां कुरु' इति प्रार्थनां कुर्वन्ति। भवान् सर्वान् सुखयति। भवता विना सर्वेषां बुभुक्षितानां पिपासितानां मृत्युः भवति। भवतः वधूः भवितुं मम रम्या मतिमती पुत्री एव सर्वश्रेष्ठा। तया विवाहं करोतु इति मम अनुरोधः।' पुत्री तदा उक्तवती - 'पितः! जलदः निश्चयेन अत्यावश्यकः । तेन विना संसारः कीदृशः भवति इति कल्पनाम् एव कर्तुं न शक्नुमः। परन्तु सः निष्प्रभः तमस्वी च। अहं तेन विवाहं न करोमि।' साधुः इति पृष्टवान् - 'त्वत् अधिकः महिमा कस्मिन्?' 'वायौ। सत्यम्, अहं सूर्यं आच्छादयितुं शक्नोमि, परं मरुत् मां यथेष्टं इतस्ततः चालयति। अतः सः मत् महान्।' इति मेघः प्रत्युत्तरं दत्तवान्।
साधुः अनिलम् आहूतवान्, इति उक्तवान् - 'पवन! भवान् यदि नासीत्, वयं कुत्र स्थास्यामः? भवान् प्राणवायुं ददाति। भवते महात्मने मम चार्वी मेधाविनी सुता एव उचिता वधूः। भवान् तया विवाहं कर्तुम् इच्छति वा?' परं पुत्री उक्तवती - 'पितः! आम्, वायुः प्राणाधारः एव, तत् सत्यम्। परं सः अस्थिरः, सर्वदा इतस्ततः धावन् एव अस्ति। तेन विवाहं न कर्तुं शक्नोमि।' 'भवतः कस्य माहात्म्यम् अधिकम्?' एतं प्रश्नं मुनिः पृष्टवान्। 'गिरिः मत् महान्। आम्, अहं सर्वान् इतस्ततः चालयितुं समर्थः, परं तस्य कनिष्ठाङ्गुलीम् अपि चालयितुं न शक्नोमि। अहं तस्य शिखरस्य उपरि गन्तुम् एव अशक्तः!' इति पवमानः उक्तवान्।
मुनिः पर्वतम् आहूतवान्। तेन उक्तम् - 'हे शैल! भवान् रत्नगर्भः। त्वया बह्व्यः अमूल्याः ओषधिवनस्पतयः धृताः। अस्मद्देशस्य शत्रवः त्वया अवरुद्धाः। भवते भूभृते मम मनस्विनी रमणीया सुपुत्री एव कान्ता भवितुम् अर्हति! तया विवाहं कुरु।' तस्य पुत्री तत्क्षणे एव उक्तवती - 'तात! गिरिः निश्चयेन अस्माकम् उद्धारः। तेन धृताभिः ओषधिवनस्पतिभिः विना वयं कुत्र? एतत् सत्यम्। परं सः कीदृशः स्थूलः! अहं कथं तेन विवाहं करवाणि?' साधुः तं प्रश्नं कृतवान् - 'त्वत् कः महान्?' इति। भूभृत् उक्तवान् - 'अहं कीदृशः बृहत्तमः! मम शीर्षात् पवनः अपि वोढुं न शक्नोति। तथापि मूषकः अस्ति खलु, सः मयि छिद्राणि कर्तित्वा निवसति!'
मूषकम् आहूतवान् मुनिः। तर्हि एव आनन्देन उक्तवती तस्य पुत्री - 'जनक! मम परिणयः तेन एव भवतु!' इति। कानिचित् क्षणानि चिन्तितवान् मुनिः। तत्पश्चात् स्वीयां तनयां पुनः मूषिकारूपेण परिवर्तितवान्। तेन मूषकेन तस्याः पाणिग्रहणसंस्कारः कारयित्वा उक्तवान् - 'भवन्तौ परस्परं सुखेन निवसताम्।' तस्य मुनेः पत्नी अपि कथितवती - 'युवाम् उत्तमं जीवनं जीवतम्।' उभौ उक्तवन्तौ - 'तथैव करवाव, सह जीवाव, सह सुखदुःखानां मध्ये सहभागिनौ भवाव, आशीर्वचनं देहि जननि, आशीर्वादं ददातु पिता!'
(इति कथा समाप्ता)
लोट् लकारः (imperative) - आज्ञार्थकः - commands and wishes can be expressed through it
पूर्वकाले - How in English we say, 'Once upon a time…'
पूर्वकाल - the bygone time
गङ्गातट - गङ्गा + तट banks - The banks of Ganga
महाज्ञानी - महा great + ज्ञानी one with knowledge, scholar (ज्ञानिन्) - a great scholar, or someone very knowledgeable
गङ्गायां - गङ्गा - सप्तमी विभक्तिः preposition - in Ganga (female)
स्नातुं - स्ना bathing + तुमुन् प्रत्ययः → to bathe
स्नात्वा - स्ना bathing + क्त्वा प्रत्ययः → bathed, and
सन्ध्यावन्दनं - the त्रिकाल सन्ध्या (the ritual performed in the three transition stages of the day - dawn (at sunrise when the day begins), midday, and just before sunset, before dusk falls) was performed by men who were initiated with the sacred thread - यज्ञोपवीतं
हस्तयोः - हस्तौ → सप्तमी विभक्तिः preposition → in his (2) hands
लघ्वी - लघुः (small) पुं → लघ्वी (small) स्त्री - subject
लघ्वीं - object
मूषिका - she-mouse
रम्या - beautiful, lovable
तां दृष्ट्वा मुदितः मुनिः ऐन्द्रजालिकया शक्त्या तां बालिकां कृत्वा तस्याः रूपं परिवर्तितवान्।
दृष्ट्वा - दृश (पश्यति) + क्त्वा प्रत्ययः → saw, and
ऐन्द्रजालिक - magical
शक्तिः - power, capability
ऐन्द्रजालिका शक्तिः magical powers → ऐन्द्रजालिकया शक्त्या 3rd case - by, with - with (his) magical powers
The sage, who was pleased on seeing her, made her a girl and changed her form with the help of his magical powers.
स्वगृहम्, स्वीयं गृहम् - स्व own, relatimg to oneself + गृहं house - his own house
नीत्वा - नी (नयति) taking + क्त्वा प्रत्ययः → took, and
सन्तानः - heir, child
पालनं - taking care of (king to his subjects, mother to her child,etc.)
इव - in the same way
त्वम् पालय - पाल् + लोट् लकारः imperative, मध्यमः पुरुषः 2nd person, एकवचनम् singular - (you) take care of, raise (her)
साधोः - साधुः + षष्ठी विभक्तिः of → of the sage
अभवत् - became (I'll teach this shortly)
इतोऽपि - more than
रूपवती - she with a beautiful form, she who is beautiful
Synonyms - सुरूपिणी, रम्या, चार्वी, रमणीया
गुणवती - she with excellent qualities
महात्मा great person - तृतीया विभक्तिः by, with → महात्मना with a great person
करोमि - I do
कारयामि - करोमि + णिच् - I make (something) do
भवितुम् - भू (भवति) being + तुमुन् प्रत्ययः → to be
Only the best among men is fit to be/ suited to be her husband.
आदित्यः - रविः, भानुः, सूर्यः - sun
विराजमानः one who is bright, splendorous - तृतीया विभक्तिः by, with - विराजमानेन with the glorious one
आहूतवान् - आ + ह्वे - invoking - आह्वयति - inviting + क्तवतु प्रत्ययः → invited
उक्तवान् - वच् speaking + क्तवतु प्रत्ययः → he spoke
NOTE - वद् → same as वच्
वद् + क्तवतु प्रत्ययः → उदितवान्
दीप्तिमान् - दीप्तिः glow, lustre + मतुप् प्रत्ययः (describes a person with a noun) → दीप्तिमान् he with a glow, or a brightness
दीप्तिमान् - चतुर्थी विभक्तिः → दीप्तिमते
बुद्धिमती - बुद्धिः intellect + मतुप् प्रत्ययः → बुद्धिमती she with intellect, she who is intelligent
सुरूपिणी - she who is beautiful
सर्वासु - सर्वा all (female) - सप्तमी विभक्तिः preposition बहुवचनम् plural → in all of them (female)
श्रेष्ठः - male, श्रेष्ठा - female, श्रेष्ठम् - neuter → best
वधूः - ऊकारान्त स्त्रीलिङ्गम् female - bride
देव, भवते दीप्तिमते मम बुद्धिमती सुरूपिणी पुत्री एव सर्वासु श्रेष्ठा वधूः भवति।
Lord, my beautiful and intelligent daughter will only be the choicest bride among women for you, the lustrous and scintillating one.
कर्तुम् - कृ (करोति) doing + तुमुन् प्रत्ययः → to do
तदैव - तदा then + एव only → then only, just then
पितः - Father! - exclamatory case - सम्बोधनम्
प्रभावान् - प्रभा = दीप्तिः = brightness + मतुप् प्रत्ययः → he who is bright
ज्वली / तपनः - he who burns, blazing hot
तापयति - तप् (तपति) being hot, blazing, burning + णिच् प्रत्ययः → to make it very hot or blazing
आच्छादयति - to cover (someone) - आ + छद् + णिच्
दीप्तिहीनः - दीप्तिः glow + हीनः without → dull, without any brightness
मेघः - पर्ज्जन्यः, जलदः - cloud
वर्षयति - वृष् (वर्षति) to rain, to shower + णिच् → to make it rain
पीत्वा - पा (पिबति) drinking + क्त्वा प्रत्ययः - drink, and
कृषकाः भवते 'वर्षां कुरु' इति प्रार्थनां कुर्वन्ति।
कुरु - कृ (करोति) doing, making + लोट् लकारः imperative मध्यमः पुरुषः 2nd person एकवचनम् singular → (you) do, make
वर्षां कुरु - make it rain
Farmers, to you, say 'make it rain' and pray thus.
सुखयति - सुख to be happy + णिच् - to make (someone) happy
भवता विना सर्वेषां बुभुक्षितानां पिपासितानां मृत्युः भवति।
Without you, the death of all those hungry and thirsty, will occur.
भवितुं - भू (भवति) being + तुमुन् प्रत्ययः → to be
रम्या - beautiful
मतिमती - मतिः = बुद्धिः = intellect + मतुप् प्रत्ययः → she who is intelligent
सर्वश्रेष्ठा = सर्वासु श्रेष्ठा = best among all (female)
करोतु - भवान् तया विवाहं करोतु।
Here, भवान्/ भवती is an indirect address. Instead of saying त्वम् - you - which is very on-the-face, भवान्/ भवती is more formal, a softer usage. Now, भवान् and भवती are in subject form - कर्ता, प्रथमा विभक्तिः - not सम्बोधनम्, in which case you will say, 'हे भवन्!' or 'हे भवति!' Only when a word is in its सम्बोधनम् or exclamatory form will it be in the 2nd person. You will be calling that person - 'Hey भवन्, hey भवति!' There it is a second-person direct reference. But when we say भवान् and भवती, we call them subjects, which is always in the 3rd person. रामः गच्छति। and भवती गच्छति। are both subjects and hence, 3rd person.
राम, गच्छसि! भवति, गच्छसि! are both exclamations and hence, second person.
If I change these same sentences to imperative mood, I will get -
रामः गच्छतु। भवती गच्छतु। now both are subjects and in 3rd person.
राम, गच्छ! भवति, गच्छ! now both are exclamations and in 2nd person.
निश्चयेन - निश्चयः fixed, sure - तृतीया विभक्तिः → surely, definitely
संसारः - the mortal world
कल्पना - imagination
निष्प्रभः, तमस्वी - dull, dark
निः without, sans + प्रभः light - he without brightness
तमस् darkness, lack of light → तमस्वी - he who is dull and dark
महिमा - महिमन् - greatness
मरुत् - तकारान्त पुंल्लिङ्गम् → wind
यथेष्टं - यथा + इष्टम् → यथा as per, according to + [इष् (इच्छति) wishing + क्त प्रत्ययः - wished] - as he wishes
चालयति - चल् (चलति) to go, to move + णिच् → to move (somebody), to make (somebody) go
अनिलः - मरुत्, वायुः, पवनः, पवमानः - wind
वयं कुत्र स्थास्यामः?
तिष्ठति to be, to stay - लृट् लकारः → स्थास्यति
तिष्ठामः → स्थास्यामः
Where would we be?
प्राणवायुः - प्राणः life + वायुः wind, air, gas - the air which bestows life - oxygen
चार्वी - beautiful
मेधाविनी - smart, intelligent
उचिता - suited, appropriate
प्राणाधारः - प्राणः life + आधारः right, bearer - he who bears life, he who gives life
अस्थिरः - अ not, never + स्थिरः stable, settled - unstable, always moving here and there
धावन् - he who keeps running
भवतः - भवान् - पञ्चमी विभक्तिः from, than - than you
भवतः कस्य माहात्म्यम् अधिकम्?
Whose greatness is more than yours/ who is greater than you?
चालयितुं - चल् go + णिच् + तुमुन् → to make (someone) go
पर्वतः - गिरिः, भूभृत्, शैलः - mountain
कनिष्ठाङ्गुली - कनिष्ठ junior, small + अङ्गुली finger or toe → little finger, little toe
समर्थः - capable
शिखरम् - peak, head
गन्तुम् - गम् (गच्छति) going + तुमुन् प्रत्ययः → to go
रत्नगर्भः - रत्न diamonds, jewels + गर्भः womb, core - one with jewels in his core
बह्व्यः plural - बह्वी singular
बह्वी female → बहुः male
बह्वी - बहुवचने - बह्व्यः many many (female)
ओषधिवनस्पतिः - ओषधिः medicine + वनस्पतिः herbs, plants - medicinal herbs
ओषधिवनस्पतिः singular - ओषधिवनस्पतयः plural
धृताः - धृ (धरति) bearing + क्त प्रत्ययः - borne
अस्मद्देशः - अस्मद् we, our + देशः country - our country
शत्रुः - enemy, foe
अवरुद्धः - blocked
मनस्विनी - she who is intelligent
रमणीया - the beautiful one
तत्क्षणे - just that second
उद्धारः - saviour
स्थूलः - giant, huge
करवाणि - कृ (करोति) लोट् लकारः imperative उत्तमः पुरुषः 1st person एकवचनम् singular - I should
How should I marry him?
बृहत्तमः - the largest of the large
शीर्षः - head, peak
वोढुम् - वह् (वहति) + तुमुन् प्रत्ययः - to flow
मूषकः - he-mouse
छिद्रम् - hole
कर्तित्वा - कृत् (कृन्तति) to cut, slice, break + क्त्वा प्रत्ययः → कर्तित्वा
परिणयः = विवाहः = पाणिग्रहणसंस्कारः → wedding
निवसताम् - नि + वस् (वसति) reside लोट् लकारः imperative प्रथमः पुरुषः 3rd person द्विवचनम् dual - may those two (in this case you both, indirectly) reside, stay
जीवतम् - जीव् (जीवति) living लोट् लकारः imperative मध्यमः पुरुषः 2nd person द्विवचनम् dual → may you both (directly) live
उभौ - both
'तथैव करवाव, सह जीवाव, सह सुखदुःखानां मध्ये सहभागिनौ भवाव, आशीर्वचनं देहि जननि, आशीर्वादं ददातु पिता!'
कृ (करोति) लोट् लकारः imperative उत्तमः पुरुषः 1st person द्विवचनम् dual → करवाव
जीव् (जीवति) लोट् लकारः imperative उत्तमः पुरुषः 1st person द्विवचनम् dual → जीवाव
भू (भवति) लोट् लकारः imperative उत्तमः पुरुषः 1st person द्विवचनम् dual → भवाव
दा (ददाति) लोट् लकारः imperative मध्यमः पुरुषः 2nd person एकवचनम् singular → देहि
दा (ददाति) लोट् लकारः imperative प्रथमः पुरुषः 3rd person एकवचनम् singular → ददातु
आशीर्वचनं - blessing
धन्यवादाः!
Comments
Post a Comment