आगन्तुकात् सावधानं!! - Beware of the stranger!
एकदा काचित् मत्कुणा महाराजस्य प्रासादे शयनकक्षे निवसति स्म। बहुभ्यः वर्षेभ्यः सा तत्र एव निवासं करोति स्म। परं सा एकाकिनी नासीत्! तस्याः पुत्राः पुत्र्यः पौत्राः पौत्र्यः बान्धवाः सख्यः च सर्वेऽपि सुखिनः तत्रैव स्थितवन्तः। यदा राजा रात्रौ भोजनं कृत्वा शयनकक्षे शेतुम् आगच्छति, मदिरां स्वीकृत्य सम्यक् शयनं करोति, मत्कुणानाम् उत्सवः एव भवति! शयानः महाराजः स्वप्नलोके भवति, तदा मत्कुणाः यथेच्छन्ति तथा महाराजस्य रक्तं पिबन्ति। मदिरायाः प्रभावेन राजा किमपि न अनुभवति। तदा तेषां वीतिः एव भवति।
एकस्मिन् दिने सा मत्कुणा किमपि श्रुतवती। कोऽपि वदन् आसीत् - 'आह! कीदृशः कोमलः पर्य्यङ्कः एषः! पर्य्यङ्कः अस्ति, पर्ज्जन्यः नास्ति इति मन्तुम् एव न शक्यते! अहो!!' कौतूहलेन सा बहिः आगत्य एतं आगन्तुकं दृष्टवती। 'कोऽपि मूर्खमशकः आगत्य अत्र महाराजस्य पर्य्यङ्के स्थितः अस्ति वा?! असम्भवः!' इति विचिन्त्य तस्य समीपं गत्वा तं भर्त्सितवती मत्कुणा - 'अयि मशक! अत्र आगन्तुं त्वया कस्य अनुमतिः प्राप्ता? अत्र भवितुं तव कः अधिकारः अस्ति? आत्मानं किं मन्यसे? अहं का इति जानासि वा?' इति। 'कृपया मे क्षमां कुरु। अहं कश्चन पर्यटकः अस्मि। संसारे सर्वत्र गतवान् अहम्। सर्वेषां रक्तं मया पीतं - धनिकेषु धनिकस्य रक्तं, बलवत्सु बलवतः रक्तं, सुबुद्धिषु श्रेष्ठबुद्धेः रक्तं, तथैव मुर्खेषु मूर्खस्य रक्तं, दरिद्रेषु परमदरिद्रस्य रक्तम् अपि! परं नाहं कदापि नृपस्य रक्तं पीतवान्। महाराजस्य रक्तं मधु इव भवति खलु! एकवारम् एव अहं तस्य रक्तं पीत्वा सन्तुष्टः भवामि। कृपया भवती एकं वा अवसरं ददातु!' इति उक्तवान् मशकः। 'न भोः! नैव ददामि। गच्छेतः! गच्छ गच्छ!' इति पुनः मत्कुणा उक्तवती। मशकः तस्याः पादौ संस्पृश्य उक्तवान् - 'कृपां कुरु! भवती एकमेव अवसरं ददातु। महाराजस्य रक्तस्य बिन्दुमात्रं मम रसनां स्पृशतु। तस्य रुचिम् आस्वाद्य अहं सन्तुष्टः भूत्वा झटिति गच्छामि। नैव एकस्य क्षणस्य विलम्बः अपि भवति मम। दयया माम् एतस्मात् सुवर्णावकाशात् मा वञ्चयतु! कृपां करोतु!' मत्कुणायां मशकस्य वचनं श्रुत्वा तस्मिन् करुणा जाता। सा उक्तवती - 'रे मशक, आम्, महाराजस्य रक्तं रुचिरं एव भवति, अति रुचिरम्। परम् एकवारं तं पीत्वा त्वं गच्छ इतः।' 'तथैव करोमि। तथैव करोमि।' 'अस्तु। इदानीं मम वचनं सम्यक् शृणु। अथवा त्वं नृपस्य रक्तपानं कर्तुं न अर्हसि।' इति उक्तवती मत्कुणा। 'अवश्यमेव शृणोमि। कृपया वदतु।' इति प्रत्युत्तरं दत्तवान् मशकः।
'भो, रक्तपानस्य काचित् रीतिः आचरणीया। तदेव अहं वदामि इदानीम्। भवान् उचितसमये उचितस्थानात् एव रक्तं पातुं शक्नोति।' 'तर्हि उचितः समयः कः? उचितं स्थानं किम्?' इति कौतूहलेन पृष्टवान् मशकः। 'यदा राजा भुनक्ति, तत्पश्चात् शेतुम् अत्र आगत्य मदिरापानं करोति, पर्य्यङ्के उपविश्य सुस्वप्नलोके गन्तुं सिद्धः भवति, तदैव भवान् तत्र गच्छतु।' 'अवगतम्। तर्हि उचितं स्थानं किम्?' इति पृष्टवान् मशकः। 'यदि भवान् तं वदने अथवा कण्ठे दंशति, कृद्धः राजा झटिति उत्तिष्ठति, अस्मान् मारयितुं सेवकान् आगमयति। तद्भवति चेत् भवान् रक्तपानात् स्वर्गं अनुभवति न, अपितु स्वर्गं प्राप्नोति एव। भवान् नृपस्य पादाभ्याम् एव रक्तं पिबतु। सावधानेन एव एतत्सर्वं करोतु! स्मरति खलु भवान्? एषः कस्यचित् महाराजस्य रक्तस्य पानाय भवतः प्रथमः तथैव अन्तिमः अवकाशः।' इति अहङ्कारिणी मत्कुणा उक्तवती। 'आम् आर्ये! तथैव करोमि, नैव किमपि विस्मरामि' इति उक्तवान् मशकः।
तदैव राजा शयनकक्षे प्रविश्य शय्यायाम् उपविष्टवान्। तं दृष्ट्वा रक्तपिपासुः व्याकुलः सः मशकः प्रतीक्षां न कृतवान्। सः स्वस्य उत्साहं वशीकर्तुम् अशक्तः अभवत्। नृपः यदा मदिरां नैव स्वीकृतवान्, तदैव सः तत्क्षणे एव उड्डीय राज्ञः कण्ठस्य समीपात् रक्तं पीतवान्। झटिति राजा कुपितः जातः, उत्थाय सेवकान् सम्बोधितवान् - 'अयि सेवकाः! किमपि माम् इदानीमेव अदंशत्। शोधयित्वा एतत्क्षणे एव तत् मारयन्तु!' तत् श्रुत्वा रक्तरुचिमग्नः मशकः अकस्मात् एकस्मिन् क्षणे ततः पलायनं कृतवान्। परं शोधनं कुर्वन्तः सेवकाः मत्कुणां दृष्टवन्तः। ते तामेव न, अपितु सर्वान् मत्कुणान् हतवन्तः।
Comments
Post a Comment